________________
रंभरूपं समाचरेत्-कुर्यादिति ॥३५५॥ - - -
निट्ठाणं रसनिज्जूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निदिसे ॥३५६॥
किंच-निट्ठाणंति, निष्ठानं-सर्वगुणोपेतं संभृतमन्नं रसनियूंढमेतद्विपरीतं कदशनं, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग्लब्धमित्यपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेन निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदं अपरमशोभनं वेति ॥३५६॥
न य भोअणंमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआहडं ॥३५७॥
किंच-न येति, न च भोजने गृद्धः सन्विशिष्टवस्तुलाभायेश्वरादिषु कुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो-ज्ञाताज्ञातमजल्पनशीलो धर्मलाभमात्राभिधायी चरेत्, तत्राप्यप्रासुकं-सचित्तं सन्मिश्रादि कथंचिद्गृहीतमपि न भुञ्जीत, तथा क्रीतमौद्देशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति ॥३५७॥
संनिहिं च न कुब्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए ॥३५८॥
संनिहिं चेति, सन्निधिं च प्रानिरूपितस्वरूपां न कुर्यादणुमात्रमपि-स्तोकमात्रमपि, संयतः-साधुः, तथा मुधाजीवीति पूर्ववत्, असम्बद्धः पद्मिनीपत्रोदकवद् गृहस्थैः एवंभूतः सन् भवेत् जगन्निश्रितश्चराचरसंरक्षणप्रतिबद्ध इति ॥३५८॥
लूहवित्ती सुसंतुट्टे, अप्पिच्छे सुहरे सिआ । आसुरत्तं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥३५९॥
किंच-लूहत्ति, रूक्षैः वल्लचनकादिभिर्वृत्तिरस्येति रुक्षवृत्तिः १४४
श्रीदशवैकालिकम् ।