________________
?
पविसित्तु परागारं पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रूवेसु मणं करे ॥३५३॥
पविसित्तुत्ति, प्रविश्य परागारं परगृहं, पानार्थं भोजनस्य वा ग्लानादेः औषधार्थं वा यतं - गवाक्षाद्यनवलोकयंस्तिष्ठेदुचितदेशे, मितं यतनया भाषेतागमनप्रयोजनादि, न रूपेषु - दातृकान्तादिषु मनः कुर्यादेवम्भूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाद्युपलक्षणमिति ॥ ३५३॥
गोचरादिगत एव केनचित्तथाविधं पृष्टः एवं ब्रूयादित्याह - बहुति, अथवोपदेशाधिकार एव सामान्येनाह -
बहुं सुणेइ कन्नेहिं, बहुं अच्छी पिच्छ । न य दिट्टं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥३५४॥ बहुति, बहु-अनेकप्रकारं शोभनाशोभनं श्रृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा बहु अनेकप्रकारमेव शोभनाशोभनभेदेनाऽक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि श्रुता ते पत्नी रुदतीत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातित्वात् अर्हति च स्वपरोभयहितं दृष्टि (दृष्ट) स्ते राजानमुपशामयन् शिष्य इत्येवमादीति ॥३५४॥
एतदेव स्पष्टयन्नाह
सुअं वा जइ वा दिद्वं, न लविज्जोवघाइअं ।
न य केणइ उवाएणं, गिहिजोगं समायरे ॥३५५ ॥
सुयंति, श्रुतं वा अन्यतो यदि वा दृष्टं स्वयमेव न लपेन्न भाषेत, औपघातिकं- उपघातेन निर्वृत्तं तत्फलं वा, यथा - चौरस्त्वमित्यादि; अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गया गृहियोगं-गृहिसम्बन्धं तद्बालग्रहणादिरूपं गृहिव्यापारं वा प्रा (आ) श्रीदशवैकालिकम् ।
१४३