________________
अण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिकाकीटिका-गृहकोकिला-ब्राह्मणीकृकलासाद्यण्डमिति ॥३४९॥
एवमेआणि जाणिज्जा(त्ता), सव्वभावेण संजए । अप्पमत्तो जए निच्चं, सव्विदिअसमाहिए ॥३५०॥
एवमेआणित्ति, एवमुक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वभावेन-शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः-साधुः, किमित्याह-अप्रमत्तो-निद्रादिप्रमादरहितो यतेत मनोवाक्कायैः संरक्षणं प्रति, नित्यं-सर्वकालं सर्वेन्द्रियसमाहितः-शब्दादिषु रागद्वेषौ अगच्छनिति ॥३५०॥
धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ॥३५१॥
तथा धुवंति, तथा ध्रुवं च-नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिंस्तत्प्रत्युपेक्षेत सिद्धान्तविधिना योगे सति सामर्थ्य अन्यूनातिरिक्तं, किं तदित्याह-पात्रकम्बलं-पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां-वसतिं द्विकालं त्रिकालं च, उच्चारभुवं च-अनापातवदादि स्थंडिलं तथा संस्तारकंतृणमयादिरूपं, अथवाऽऽसनं-अपवादगृहीतं पीठकादि प्रत्युपेक्षतेति ॥३५१॥
उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फासुअं पडिलेहित्ता, परिठ्ठाविज्ज संजए ॥३५२॥
तथा उच्चारंति, उच्चारं प्रश्रवणं श्लेष्म सिंघानं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिष्ठापयेदुत्सृजेत्संयत इति ॥३५२।।
उपाश्रयस्थानविधिरुक्तः, गोचरप्रवेशमधिकृत्याह१४२
श्रीदशवैकालिकम् ।