________________
अट्ठत्ति, अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगतः आसीत तिष्ठेत् शयीत वेति योगः, किंविशिष्टानीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्यात्, अन्यथा तेषां विराधनेन सातिचार-तेति ॥३४७॥
कयराइं(णि) अट्ठ सुहुमाइं ? जाइं पुच्छिज्ज संजए । इमाइं ताई मेहावी, आइक्खिज्ज विअक्खणो ॥३४८॥
आह-कयराणित्ति, कतराणि तान्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः, ? अनेन दयाधिकारिण एवैवंविधेषु यत्नमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति, अमूनि तान्यनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति ॥३४८॥
सिणेहं पुप्फसुहमं च, पाणुत्तिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥३४९॥
सिणेहंति, स्नेहमिति स्नेहसूक्ष्म-अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, प्राणीति, प्राणिसूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिगं तथैव चेति, उत्तंगसूक्ष्म-कीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति, पनकसूक्ष्म प्राय: प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तव्यलीन: पनक इति, तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्मं, तच्चाऽत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, श्रीदशवैकालिकम् ।