SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मणसावि ण पत्थर ॥ ३४४॥ तणत्ति, तृणवृक्षमित्येकवद्भावः, तृणानि - दर्भादीनि वृक्षा:कदम्बकादयः, एतान्न छिन्द्यात् फलं मूलकं वा कस्यचिद्वृक्षादेर्न छिन्द्यात् तथा आमं- अशस्त्रोपहतं विविधं - अनेकप्रकारं बीजं मनसापि न प्रार्थयेत् किं पुनरश्नीयादिति ॥ ३४४॥ १४० गणेसु न चिट्ठिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं उत्तिंगपणगेसु वा ॥ ३४५॥ " तथा गहणेसु, गहनेषु-वननिकुञ्जेषु च न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु - प्रसारितशाल्यादिषु, हरितेषु वा - दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं अत्रोदकं - अनन्तवनस्पतिविशेषः, यथोक्तं "उदए अवए पणए" इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः - सर्पच्छत्रादिः पनक:उल्लिवनस्पतिरिति ॥ ३४५॥ उक्तो वनस्पतिविधिः, त्रसविधिमाह तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज्ज विविहं जगं ॥३४६॥ तसत्ति, त्रसप्राणिनो - द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याहवाचा अथवा कर्मणा - कायेन, मनसस्तदन्तर्गतत्वादग्रहणं, अपि चोपरतः सर्व्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं जगत्-कर्म्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति ॥ ३४६ ॥ उक्तः स्थूलविधिः अथ सूक्ष्मविधिमाह , अट्ठ सुमाई पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, आस चिट्ठ सहि वा ॥ ३४७॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy