SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सौवीराद्युपलक्षणमिति ॥३४०॥ उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥३४१॥ तथा उदउल्लंति, नदीमुत्तीर्णः भिक्षाप्रविष्टो वा वृष्टिहतः उदकार्द्र-उदकबिन्दुचितमात्मनः कायं-शरीरं सस्निग्धं वा नैव पुञ्छयेद्वस्त्रतृणादिभिः न संलिखेत् पाणिना-हस्तेन, अपि तु संप्रेक्ष्यनिरीक्ष्य तथाभूतमुदकार्दादिरूपं नैव कायं संघट्टयेन्मुनिर्मनागपि न संस्पृशेदिति ॥३४१॥ उक्तोऽप्कायविधिः, तेजःकायविधिमाहइंगालं अगणिं अच्चि, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥३४२॥ इंगालिति, अङ्गारं-ज्वालारहितं, अग्निमयःपिण्डानुगं, अच्चिःछिन्नज्वाला, अलातं-उल्मुकं वा सज्योतिः-साग्निकमित्यर्थः, किमित्याहनोत्सिञ्चयेन्न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं-मिथश्चालनं, तथा नैनमग्नि निर्वापयेत्-अभावमापादयेन्मुनिः-साधुरिति ॥३४२॥ प्रतिपादितस्तेजःकायविधिः, वायुकायविधिमाहतालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइज्जऽप्पणो कायं, बाहिरं वावि पुग्गलं ॥३४३॥ तालियंटेणंति, तालवन्तेन-व्यजनविशेषेण, पत्रेण-पद्मिनीपत्रादिना, शाखया-वृक्षडाल-रूपया विधूवनेन वा-व्यजनेन वा, किमित्याह-न वीजयेदात्मनः कायं-स्वशरीरमित्यर्थः, बाह्यं वापि पुद्गलं-उष्णोदकादीति ॥३४३॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह श्रीदशवैकालिकम् । 930
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy