________________
इति ॥३३७||
एवं सामान्येन षड्जीवनिकायाऽहिंसायां संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह -
पुढविं भिति सिलं लेलुं, नेव भिदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ॥ ३३८ ॥ पुढवित्ति, पृथिवीं शुद्धां भित्तिं तटीं शिलां पाषाणात्मिकां लेष्टुंइट्टालखण्डं नैव भिन्द्यात् न संलिखेत्, तत्र भेदनंद्वैधीभावोत्पादनं संलेखनं - ईषल्लेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संयतः-साधुः, सुसमाहितः शुद्धभाव इति ॥३३८॥
सुद्धपुढवीं न निसीए, ससरक्खमि अ आसणे । पमज्जित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं ॥ ३३९॥
तथा सुद्धत्ति, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के - पृथिवीरजोगुण्डिते वा आसने - पीठकादौ न निषीदेत्, निषीदनग्रहणात् स्थान - त्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत्, ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वाऽवग्रहमिति, यस्य सम्बन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येत्यर्थः ॥ ३३९ ॥
उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाहसीओदगं न सेविज्जा, सिलावुद्वं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥३४०॥
सीओदगत्ति, शीतोदकं पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, अत्र शिलाग्रहणेन करकाः परिगृह्येते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति, यद्येवं कथमयं वर्तेतेत्याह-उष्णोदकं-क्वथितोदकं तप्त - प्रासुकं - तप्तं सत् प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं परिगृह्णीयात्, वृत्त्यर्थं संयतः-साधुः, एतच्च श्रीदशवैकालिकम् ।
१३८