SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अथ आचारप्रणिधिनाम अष्टमं अध्ययनम् । व्याख्यातं वाक्यशुद्धयध्ययनं, इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसम्बन्धः । इहानन्तराध्ययने साधुना वचनदोषगुणाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदभिहितं, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तंत्र यत्नवता भवितव्यमित्येतदुच्यते उक्तं च"पणिहाणरहियस्सेह निरवज्जपि भासियं । सावज्जतुल्लं विन्नेयं, अज्झत्थेणेह संवुडं ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तद्यथा आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ॥३३५॥ आचारमित्यादि, आचारप्रणिधिमुक्तस्वरूपां लब्ध्वा-प्राप्य यथा-येन प्रकारेण कर्तव्यं विहितानुष्ठानं भिक्षुणा-साधुना, तं प्रकार भे-भवद्भ्य उदाहरिष्यामि-कथयिष्याम्यानुपूर्व्या-परिपाट्या श्रृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति ॥३३५॥ तं प्रकारमाह पुढवीदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अ पाणा जीवत्ति इइ वुत्तं महेसिणा ॥३३६॥ पुढवित्ति, पृथिव्युदकाऽग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा-वर्धमानेन गौतमेन वेति ॥३३६।। यतश्चैवमतःतेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ । मणसा कायवक्के णं, एवं हवइ संजए ॥३३७॥ तेसित्ति, तेषां-पृथिव्यादीनां अक्षणयोगेन-अहिंसा-व्यापारेण नित्यं भवितव्यं-वर्तितव्यं स्याद्भिक्षुणा मनसा कायेन वाक्येनैभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्य(था) श्रीदशवैकालिकम् । १३७
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy