SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ छसु संजए सामणिए सया जए, -.. वइज्ज बुद्धे हिअमाणुलोमिअं ॥३३३॥ भासाएत्ति, भाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वायथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जको-विवर्जकः सदा, एवम्भूतः सन् षड्जीवनिकायेषु संयतस्तथा श्रामण्ये-श्रमणभावे चरणपरिणामगर्भे चेष्टिते सदा यतः-सर्वकालमुद्युक्तः सन् वदेत् बुद्धो हितानुलोम-हितं परिणामसुन्दरं अनुलोम-मनोहारीति ॥३३३॥ उपसंहरन्नाहपरिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए । से निद्भुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं ॥३३४॥ त्तिबेमि ॥ इति सवक्कसुद्धीअज्झयणं समत्तं ७॥ परिक्खत्ति, परीक्ष्यभाषी-आलोचितवक्ता तथा सुसमाहितेन्द्रियः-सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषायः-क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो-द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयं, स इत्थंभूतो निर्धूय-प्रस्फोट्य धून्नमलं-पापमलं, पुराकृतंजन्मान्तरकृतं, किमित्याह आराधयति-प्रगुणीकरोति लोकमेनं-मनुष्यलोकं वाक्संयतत्वेन, तथा परमिति-परलोकमाराधयति निर्वाणलोकं, यथासम्भवमन्तरं पारम्पर्येण चेत्यर्थः ॥३३४॥ ब्रवीमीति पूर्ववदेवेति ॥ इति श्रीसुमतिसाधुसूरिविरचितायां दशवैकालिकटीकायां सप्तमस्य वाक्यशुद्धयध्ययनस्य व्याख्यानं समाप्तम् ७ ।। १३६ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy