________________
मित्येवमालपेत् व्यवहारतो मृषावादादिपरिहारार्थम् ॥३३०॥ तहेव सावज्जणुमोअणी गिरा,
ओहारिणी जा य परोवघाइणी । से कोह लोह भय हास माणवो,
न हासमाणोऽवि गिरं वइज्जा ॥३३१॥ किंच-तहेवत्ति, तथैव सावधानुमोदिनी गी:-वाक् यथा सुष्ठु हतो ग्राम इति, तथाऽवधारिणी-इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथा-मांसमदोषाय, से इति तामेवंभूतां, क्रोधाल्लोभाद्भयाद्धासाद्वा, मानप्रेमादीनामुपलक्षण-मेतन्मानवः-पुमान् साधुन हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति ॥३३१॥
वाक्यशुद्धिफलमाहसवक्कसुद्धि समुपेहिआ मुणी,
गिरं च दुटुं परिवज्जए सया। मिअं अदुटुं अणुवीइ भासए,
सयाण मज्जे लहई पसंसणं ॥३३२॥ सवक्कत्ति, सद्वाक्यशुद्धि स्ववाक्यशुद्धि वा सवाक्यशुद्धिं वा, सती शोभनी, स्वां आत्मीयां, स इति वक्ता, वाक्यशुद्धि संप्रेक्ष्यसम्यग्दृष्ट्वा मुनिः-साधुः, गिरं तु दुष्टां-यथोक्तलक्षणां परिवर्जयेत्सदा, किंतु मितं स्वरतः परिमाणतश्च, अदुष्टं-देशकालोपपन्नादि अनुविचिन्त्य-पर्यालोच्य भाषमाणः सन् सतां-साधूनां मध्ये लभते प्रशंसन-प्राप्नोति प्रशंसामिति ॥३३२।।
यतश्चैवमत:भासाइ दोसे अ गुणे अ जाणीआ,
तीसे अ दुढे परिवज्जए सया । श्रीदशवैकालिकम् ।