________________
किंच- देवाणंति, देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां, तिरश्चां च महिषादीनां विग्रहे - सङ्ग्रामे सत्यऽमुकानां देवादीनां जयो भवतु मा वा भवतु इति च नो वदेत्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसंगादिति ॥३२७॥
वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज एयाणि ?, मा वा होउत्ति नो वए ॥ ३२८ ॥
किं च-वाओत्ति, वातो - मलयमारुतादि, वृष्टं वा प्रवर्षणं, शीतोष्णं प्रतीतं, क्षेमं - राजविङ्वरशून्यं धातं - सुभिक्षं, शिवमिति चोपसर्गरहितं कदा नु भवेयुरेतानि वातादीनि मा भवेयुरिति, घर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्वपीडाऽऽपत्तेस्तद्वचनतस्तथाऽभवनेऽप्याऽऽर्तध्यानभावादिति ॥३२८॥
,
,
तहेव मेहं व नहं व माणवं न देवदेवत्ति गिरं वइज्जा । समुच्छिए उन्नए वा पओए, वइज्ज वा वुट्ठ बलाहयति ॥ ३२९॥ तवत्ति, तथैव मेघं वा नभो मानवं वाश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा 'उन्नतो देव' इति नो वदेत्, एवं नभ:आकाशं मानवं-राजानं देवमिति नो वदेत् मिथ्यावाद - लाघवादिप्रसङ्गात्, कथं तर्हि वदेत् ? इत्याह मेघमुन्नतं दृष्ट्वा सम्मूर्छित उन्नतो वा पयोद इति वदेद्वा वृष्टो बलाहक इति ॥ ३२९॥
नभ आश्रित्याह
अंतलिक्खत्ति णं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धमंतं नरं दिस्स, रिद्धिमंतंति आलवे ॥३३०॥
अंतलिक्खत्ति, इह नभोऽन्तरिक्षमिति ब्रूयात्, गुह्यानुचरितमिति
,
वा सुरसेवितमित्यर्थः एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव तथा ऋद्धिमन्तं - संपदुपेतं नरं दृष्ट्वा किमित्याहऋद्धिमन्तमिति ऋद्धिमानय
१३४
श्रीदशवैकालिकम् ।