________________
अप्पग्धे वत्ति, अल्पार्थे वा महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा पणितार्थे-पण्यवस्तुनि समुत्पन्ने केनचित्पृष्टः सन्ननवयं-अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां, व्यापाराभावादिति ॥३२३॥
तहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥३२४॥
किंच-तहेवत्ति, तथैवा-ऽसंयतं-गृहस्थं धीरो-यतिः, आस्वेहैव, एहीतोऽत्र, कुरु वेदं-संचयादीति, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन व्रज ग्राममिति नैवं भाषेत प्रज्ञावान्-साधुरिति ॥३२४॥
बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहुं साहुत्ति आलवे ॥३२५॥
बहवेत्ति, बहव एते-उपलभ्यमानस्वरूपा आजीविकादयः असाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात उच्यन्ते साधवः सामान्येन, तत्र नालपेत् असाधु साधुं मृषावादप्रसङ्गात्, अपि तु साधु साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति ॥३२५॥
किंविशिष्टं साधु साधुमित्यालपेदित्याहनाणदंसणसंपन्नं, संजमे अ तवे रयं । एवं गुणसमाउत्तं, संजयं साहुमालवे ॥३२६॥
नाणत्ति, ज्ञानदर्शनसंपन्नं-समृद्ध, संयमे तपसि च रतं यथाशक्त्या एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति ॥३२६॥
देवाणं मणुआणं च, तिरिआणं च वुग्गहे ।
अमुगाणं जओ होउ, मा वा होउ त्ति नो वए ॥३२७॥ श्रीदशवैकालिकम् ।
१३३