________________
क्वचित्, अविक्कियंति - असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव अचियत्तं वा अप्रीतिकरं चैतदिति नो वदेद्, अधिकरणाऽन्तरायादिदोषप्रसङ्गादिति ॥ ३२० ॥
सव्वमेअं वइस्सामि सव्वमेअं ति नो वए ।
अणुवीइ सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ॥ ३२९॥ किंच - सव्वमेयमिति, सर्वमेतद्वक्ष्यामीति केनचित्कस्यचित्संदिष्टे सर्व्वमेतत् त्वया वक्तव्यमिति, सर्वमेतद्वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन्, सर्वमेतदित्येवं वक्तव्यमिति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावादः, यतश्चैवमतोऽनुचिन्त्यालोच्य सर्वं वाच्यं सर्वेषु कार्येषु यथाऽसंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति ॥३२१|| सुक्कीअं वा सुविक्कीअं, अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो विआगरे ॥ ३२२ ॥ किंच - सुक्कीयं वत्ति, सुक्रीतं चेति केनचित् किञ्चित् क्रीतं दर्शितं सत् सुक्रीतमिति न व्यागृणीयादिति योग:, तथा सुविक्रीतमिति किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित्क्रीते पृष्टः, अक्रेयं क्रयार्हमेव न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा क्रयार्हमिति, तथेदं - गुडादि गृह्णीयादा (गृहाणा) - गामिनि काले महार्घं भविष्यतीति तथेदं मुञ्च घृताद्यागामिनि काले समर्चं भविष्यतीतिकृत्वा पणितं पण्यं नैव व्यागृणीयात् अप्रीत्यधिकरणादिदोषप्रसङ्गादिति ॥ ३२२ ॥
अत्रैव विधिमाह
अप्परघे वा महग्घे वा, कए वा विक्कएवि वा ।
पणिअट्ठे समुप्पन्ने, अणवज्जं विआगरे ॥ ३२३ ॥
श्रीदशवैकालिकम् ।
१३२