________________
अत्रापि सुशब्दोऽनुवर्तते, सुनिष्ठितमिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलद्विति-सुष्ठु सुन्दरा कन्या इति, सावद्यमालपनं वर्जयेन्मुनिरनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा-सुकृतमिति सुष्ठु कृतं वैयावृत्त्यमनेन, सुपक्वमिति-सुष्ठु पक्वं ब्रह्मचर्य साधोः, सुच्छिन्नमिति-सुष्ठु छिन्नं स्नेहबन्धनमनेन, सुहृतमिति सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे, सुमृत इति-सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, सुनिष्ठितं-सुष्ठु निष्ठितं कर्माप्रमतसंयतस्य, सुलट्ठत्ति-सुष्ठु सुन्दरा साधुकियेत्येवमादिरिति ॥३१८॥
उक्तानुक्तापवादविधिमाहपयत्तपक्कत्ति व पक्कमालवे,
पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलट्ठित्ति व कम्महेउअं,
पहारगाढत्ति व गाढमालवे ॥३१९॥ पयत्तत्ति, प्रयत्नपक्वमिति वा प्रयत्नपक्कमेतत्, पक्वं सहस्त्रपाकादि ग्लानादिप्रयोजने एवमालपेत्, तथा प्रयत्नच्छिन्नमिति वाप्रयत्नच्छिन्नमेतच्छिन्नं-वणा-(वना)दि साधु-निवेदनादावेवमालपेत्, तथा प्रयत्नलष्टेति चेति प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति, कर्महेतुकमिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा गाढप्रहारमिति वा कञ्चन गाढ-मालपेत्-गाढप्रहारं ब्रूयात्, क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्ति इति ॥३१९॥
क्वचिद् व्यवहारे प्रकान्ते पृष्टो वा अपृष्टो वा नैवं वदेदित्याहसव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं, अचिअतं चेव नो वए ॥३२०॥
सव्वुक्कसंति, एतन्मध्ये इदं सर्वोत्कृष्टं-स्वभावेन सुन्दरमित्यर्थः, परार्धं चोत्तमाघु वा महाघ क्रीतमिति भावः, अतुलं-नास्तीदृशमन्यत्रापि श्रीदशवैकालिकम् ।
१३१