________________
सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगमे इव चन्द्रमा इति यथा कृत्स्ने अभ्रपुटे कृष्णे वा अपगते सति चन्द्रमा विराजते शरदि, तद्वदसावपगतकर्म्मघनः समासादितकेवलालोको विराजते ॥ ३९८ ॥ ब्रवीमीति पूर्ववत् ॥
इत्याचारप्रणिध्याख्यमष्टममध्ययनं समाप्तम् ॥
蛋蛋蛋
अथ विनयसमाधिनाम नवमं अध्ययनम् ।
व्याख्यातमाचारप्रणिध्यध्ययनम् । अधुना विनयसमाध्या - ख्यमारभ्यते-अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति, तत्र यत्नवता भवितव्यमित्येतदुक्तं, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते । उक्तं च-“आयारपणिहाणंमि, से सम्मं वट्टई बुहे । णाणाईणं विणीए जे, मुक्खट्ठा निव्विगिच्छए ॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति
थंभा व कोहा व मयप्पमाया,
गुरुस्सगासे विणयं न सिक्खे ( तिइ ) सो चेव उ तस्स अभूइभावो,
फलं व कीअस्स वहाय होइ ॥ ३९९ ॥
थंभा वेत्यादि, स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वाअक्षान्तिलक्षणात्, मायाप्रमादादिति, मायातो - निकृतिरूपायाः प्रमादात्निद्रादेः सकाशात् किमित्याह - गुरोः सकाशे - आचार्यादेः समीपे विनयमासेवनाशिक्षादिभेदभिन्नं न शिक्षते नोपादत्ते, तत्र स्तम्भात् कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वेति मायातः 'शूलं मे बाधत' इत्यादिव्याजेन, प्रमादात् प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्याश्रीदशवैकालिकम् ।
१५८