________________
सश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे विनये न तिष्ठति-विनये न वर्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तंभादिविनयशिक्षाविघ्नहेतुस्तस्य जडमतेः, अभूतिभाव इति-अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति-गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-फलमिव कीचकस्य-कीचको-वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्तद्वदिति ॥३९९॥ जे आवि मंदित्ति गुरूं विइत्ता,
डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा,
करंति आसायण ते गुरूणं ॥४००॥ किंच-जे यावित्ति, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्याह-मन्द इति गुरूं विदित्वा-क्षयोपशम-वैचित्र्यात् तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं डहरोऽयं-अप्राप्तवयाः खल्वयं, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह-हीलयन्ति-सूयया असूयया वा खिसयन्ति, सूयया अतिप्रज्ञः त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति, गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छतः कुर्वन्त्याशातनां-लघुतापादनरूपां ते-द्रव्य-साधवः गुरूणां-आचार्याणां, तत्स्थापनाया अबहुमानेन, एकगुह्यशातनायां सर्वेषामाशातनेति बहुवचनं, अथवा कुर्वन्त्याशातनां स्वसम्यग्दर्शनादि-भावापहासरुपां ते गुरुणां सम्बन्धिनी, तन्निमित्तत्वादिति ॥४००॥
श्रीदशवैकालिकम् ।
१५९