Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 142
________________ भावनायां असम्मतकथा | मुक्तषट्जीवहिंसाऽङ्घ्रिर्भावनामालतीं गतः । आत्माऽयं भ्रमरो गच्छेद्रसाऽऽस्वादेन निर्वृतिम् ॥१॥ भवाऽन्तरसहस्रेषु, भ्रमणाद्रजसावृतः । भावनासरिति स्नायाच्चेदात्मा तच्छुचिर्भवेत् ॥२॥ यावत्प्राप्नोति नाऽऽत्माऽयं, भावनामुखचुम्बनम् । तावदन्यत्र संसक्तिः, स्यादस्येति न संशयः ॥३॥ यद्यात्मनि प्रसद्याऽऽत्मा, स्वीकरिष्यति भावनाम् । तदाऽयं लप्स्यते स्वार्थमसम्मतनराऽऽत्मवत् ॥४॥ अस्ति रत्नपुरे राजा, न्यायवानरिमर्दनः । यद्भ्रूभङ्गेन भङ्गः स्यात् ससैन्यानामपि द्विषाम् ॥५॥ ललिताऽङ्गः कुमारोऽस्ति, राज्ञोऽस्य प्राणवल्लभः । वसन्तसमये रत्नुमुद्यानं सोऽन्यदा ययौ || ६ || क्रीडता तेन तत्रैका, ददृशे मन्त्रिगेहिनी । प्रशान्तस्याऽपि तस्याऽस्यां बभूव मनसो रतिः ||७|| प्रेष्य मित्रं कथं तन्वि !, भावी नौ सङ्गमः क्व वा ? | अपप्रच्छत् कुमारस्तां, साऽपि प्राहाऽनुरागिणी ॥८॥ ४०० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212