Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 202
________________ प्रभोनिर्वाणकल्याणकम् । सर्वाऽतिशयसम्पूर्णः, सर्वदेवपरिष्कृतः । विजहार जिनोऽन्यत्र, भुवि व्योम्नीव चन्द्रमाः ॥१॥ साऽर्द्धा द्विलक्षी साधूनां, साध्वी लक्षत्रयी पुनः । सहस्राऽशीतिसहिता, द्वे सहस्रे तु पूर्विणाम् ॥२॥ शताऽशीतिः साऽवधीनां, मनःपर्ययिणां च सा । तथा दशसहस्राणि, केवलज्ञानधारिणाम् ॥३॥ जातवैक्रियलब्धीनां, सहस्राणि चतुर्दश । वादलब्धिमतां सप्तसहस्री षट्शतानि च ॥४॥ साढे लक्षे श्रावकाणां, श्राविका लक्षपञ्चकम् । सहस्रैर्नवतियूनं,परिवारोऽभवत् प्रभोः ।।५।। पूर्वलक्षं त्रिमासोनं, चतुर्विश्यङ्गवर्जितम् । विहृत्य केवलात् स्वामी, ययौ सम्मेतपर्वतम् ॥६।। ज्ञात्वा स्वं मोक्षकालं च, सहस्रमुनिसंयुतः । प्रपेदेऽनशनं स्वामी, मासं चाऽस्थात्तथास्थितिः ॥७।। अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पेन तत्क्षणात् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ।।८।। ४६० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212