Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 200
________________ कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पादविगमध्रौव्याऽऽत्मानः सर्वेऽपि ते पुनः ।।२९।। पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा, तत्राऽबद्धाः किलाऽणवः ॥३०॥ बद्धाः स्कन्धा बद्धशब्दसौक्ष्म्यस्थौल्याऽऽकृतिस्पृशः । अन्धकाराऽऽतपोद्योतभेदच्छायाऽऽत्मका अपि ॥३१॥ कर्मकायमनोभाषाविष्टितोच्छासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः ॥३२॥ प्रत्येकमेकद्रव्याणि, धर्माधर्मों नभोऽपि च । अमूर्त्तानि निष्क्रियाणि, स्थिराण्यपि स सर्वदा ॥३३॥ एकजीवपरीणामसङ्ख्याऽतीतप्रदेशकौ । लोकाऽऽकाशमभिव्याप्य, धर्माऽऽधर्मों व्यवस्थितौ ॥३४॥ स्वयं गन्तुं प्रवृत्तेषु, जीवाऽजीवेषु सर्वतः । सहकारी भवेद्धर्मः, पानीयमिव यादसाम् ।।३५।। जीवानां पुद्गलानां च, प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येषु, यथा छायाऽध्वयायिनाम् ॥३६।। सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकाऽलोकौ स्थितं व्याप्य, तदनन्तप्रदेशभाक् ॥३७|| लोकाऽऽकाशप्रदेशस्था भिन्नाः कालांऽशकास्तु ये । भावानां परिवर्ताय, मुख्यः कालः स उच्यते ॥३८॥ ज्योतिःशास्त्रे यस्य मानमुच्यते समयाऽऽदिकम् । स व्यावहारिकः कालः, कालवेदिभिरामतः ॥३९।। नवजीर्णाऽऽदिरूपेण, यदमी भवनोदरे । पदार्थाः परिवर्तन्ते, तत्कालस्यैव चेष्टितम् ॥४०॥ ४५८ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212