Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 199
________________ सर्वजीवेषु देहायुरुच्छ्वासा इन्द्रियाणि च । विकलाऽसञ्ज्ञिनां भाषा, पूर्णानां सञ्ज्ञिनां मनः ॥१७॥ उपपादभवा देवा नारका गर्भजाः पुनः । जरायुःपोताऽण्डभवाः, शेषाः सम्मूर्च्छनोद्भवाः ॥१८॥ सम्मूच्छिनो नारकाश्च, जीवाः पापा नपुंसकाः । देवा: स्त्रीपुंसवेदाः स्युर्वेदत्रयजुषः परे ||१९|| सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । सूक्ष्मनिगोदा एवाऽन्त्यास्तेऽन्येऽपि व्यवहारिणः ॥२०॥ सचित्तः संवृत्तः शीतस्तदन्यो मिश्रितोऽपि च । विभेदैरान्तरैभिन्नो नवधा योनिरङ्गिनाम् ॥२१॥ प्रत्येकं सप्तलक्षाणि, पृथ्वीवार्यग्निवायुषु । प्रत्येकाऽनन्तकायेषु, क्रमाद्दश चतुर्दश ||२२|| षट् पुनर्विकलाऽक्षेषु, मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च, श्वभ्रतिर्यक्सुरेषु च ||२३|| एवं लक्षाणि योनीनामशीतिश्चतुरुत्तरा । प्रोक्तानि ज्ञानदृश्यानि, सर्वेषामेव जन्मिनाम् ||२४|| एकाऽक्षा बादराः सूक्ष्माः, पञ्चाऽक्षाः सञ्ज्यसज्ञिन । स्युर्द्वित्रिचतुरक्षाश्च, पर्याप्ता इतरेऽपि च ॥२५॥ एतानि जीवस्थानानि, मयोक्तानि चतुर्दश । सम्यग् विज्ञाय पुण्याय, तद्रक्षां कुरुत स्फुटम् ||२६|| [जीवतत्त्वम्] अजीवाः स्युर्धर्माऽधर्मविहाय:कालपुद्गलाः । जीवेन सह पञ्चाऽपि, द्रव्याण्येते निवेदिताः ॥२७॥ तत्र कालं विना सर्वे, प्रदेशप्रचयाऽऽत्मकाः । विना जीवमचिद्रूपा, अकर्त्तारश्च ते मताः ॥२८॥ दिग्विरतिव्रतादीनुद्दिश्य प्रभोर्देशना । ४५७

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212