Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
इन्द्राऽऽदेशादथैन्द्या ते, स्वामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः ॥ २१ ॥ अन्येषामनगाराणां, कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ॥२२॥ इन्द्रः क्षीरोदपयसा, स्नपयित्वा प्रभोर्वपुः । विलिप्य चन्दनरसैर्दिव्यवस्त्रैरवासयत् ॥२३॥
अन्ये तु देवा अन्येषां मुनीनां विदधुस्तथा । इन्द्रो रत्नशिबिकायां, चिक्षेप भगवद्वपुः ||२४|| अन्यस्यां तु शिबिकायामन्येषां व्रतिनां वपुः । उद्दधार हरिः स्वेन, स्वामिनः शिबिकां सशुक् ॥ २५ ॥ मुनीनामपरेषां तु, शिबिकामपरे सुराः । देवा देव्यश्च चक्रुर्द्राक्, सङ्गीतनृत्तरासकान् ॥२६॥ अथ प्राचीनचितायां, वासवः स्वामिनस्तनुम् । स्थापयामास साधूनामन्येषामपरत्र तु ||२७|| अथेन्द्राऽऽदेशादग्नि च, न्यधुरग्निकुमारकाः । वायवो ज्वालयामासुः, कर्पूरं चिक्षिपुः सुराः ॥२८॥ मुक्त्वाऽस्थि धातवो यावद्दग्धास्तावच्चिताऽनलम् । व्यधापयन् सुराः क्षीराम्भोधीर्मेघकुमारकाः ॥२९॥ प्रतिमावत्पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनीं, दंष्ट्रां वामेतरां प्रभोः ||३०||
,
ईशानोऽपि वामदंष्ट्रां, चमरोऽधस्तनीं पुनः । सव्यां तथा बलिर्वामामन्ये दन्तान् सकीकसान् ॥३१॥
ततो नन्दीश्वरद्वीपे शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः सेन्द्राः स्वं स्वं पदं ययुः ||३२||
४६२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212