Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 203
________________ तत्र प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥९॥ नभस्यकृष्णसप्तम्यां, श्रवणस्थे निशाकरे । चन्द्रप्रभः प्रभुस्तस्थौ, ध्याननिष्कम्पमानसः ॥१०॥ तथा निषण्णः पर्यङ्काऽऽसने स्थित्वा च बादरे । काययोगे बादरौ वाचित्तयोगौ रुरोध च ॥११।। सूक्ष्मेण काययोगेन काययोगं च बादरम् । रुद्ध्वा रुरोध सूक्ष्मौ च, योगौ वाचित्तलक्षणौ ॥१२॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अमू सूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥१३।। ततश्च ध्यानमुच्छन्नक्रियं नाम तुरीयकम् । पञ्चहूस्वाऽक्षरोच्चारमितकालमशिश्रियत् ॥१४।। सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणकर्मा निष्ठिताऽर्थोऽनन्तवीर्यसुखर्द्धिकः ॥१५॥ बन्धाऽभावादूर्ध्वगतिरेरण्डफलबीजवत् । प्रभुः स्वभावादृजुना, पथा लोकाऽग्रमासदत् ॥१६।। प्रपन्नाऽनशनास्तेऽपि, साधवो योगरोधिनः । सर्वेऽप्यासादयामासुः, स्वामिवत् परमं पदम् ।।१७।। स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥१८॥ शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् । अनुसङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि ॥१९॥ ततः सङक्रन्दनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनैधांसि, समानिन्युर्दिवौकसः ॥२०॥ प्रभोनिर्वाणकल्याणकम् । ४६१

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212