Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 197
________________ पोषं धर्मस्य यो धत्ते, स पौषधश्चतुर्विधः । देशतः सर्वतश्चैव, कृतः पुण्याय जायते ||२|| गृहीते पौषधेऽवश्यं, क्षीयते कर्मसञ्चयः । गरुत्मति सदाऽऽसन्ने, क्वाऽपि नश्यन्ति पन्नगाः ||३|| पुण्यास्ते ये हि गृह्णन्ति, भावतः पौषधव्रतम् । यत्तस्मात्क्षीयते कर्म, ततः शाश्वतिकं सुखम् ॥४॥ अतिथिसंविभागव्रतम् । चतुर्विधाऽऽहारपात्रवस्त्रौकोदानमत्र यत् । अतिथिभ्यस्तदतिथिसंविभागव्रतं मतम् ॥१॥ अन्नाऽऽदीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां, स्वर्णादीनां न तन्मतम् ॥२॥ काले ह्युपासकः सर्वशुद्धं दानं ददत्किल । अविच्छिन्नान् भवे प्राप्य, भोगान् स लभते शिवम् ॥३॥ चत्वार्येतानि नित्यं तु, कार्याण्युपासकेन यत् । तच्छिक्षाव्रतसंज्ञानि, ह्यादिष्टान्यत्र यत्यताम् ॥४॥ सप्ततत्त्वादेरुपदेशः । ज्ञेयानि सप्ततत्त्वानि, श्रमणोपासकैः सदा । यथा तदनुसारेण, धर्मे सूक्ष्मक्रिया भवेत् ॥१॥ जीवाऽजीवाश्रवश्चाऽपि, संवरो निर्जराऽपि च । बन्धो मोक्षश्चेति सप्त, वित्त तत्त्वानि भो ! जनाः ! ॥२॥ तत्र जीवा द्विधा ज्ञेया, मुक्ताः संसारिणस्तथा । अनादिनिधनाः सर्वे, ज्ञानदर्शनलक्षणाः ॥ ३॥ मुक्ता एकस्वभावा: स्युर्जन्माऽऽदिक्लेशवर्जिताः । अनन्तदर्शनज्ञानवीर्याऽऽनन्दमयाश्च ते ||४|| दिग्विरतिव्रतादीनुद्दिश्य प्रभोर्देशना । ४५५

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212