Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 195
________________ दिग्विरतिव्रतादीनुद्दिश्य प्रभोर्देशना । प्रथम गुणव्रतम् । योऽङ्गीकृतोऽवधिर्दिक्षु, दशस्वपि न लङ्घ्यते । दिग्विरतिरिति प्रोक्तं, प्राच्यमेतद्गुणव्रतम् ॥१॥ तप्ताऽयोगोलतुल्यानां गृहिणां सद्व्रतं ह्यदः । यच्चराचरजन्तूनां, मर्दनं क्रियते नहि ||२|| गन्तुं सर्वासु यो दिक्षु, विदध्यादवधि सुधीः । स्वर्गाऽऽदौ निरवधयो जायन्ते तस्य सम्पदः ||३|| तदेतद्यावज्जीवं वा, सदव्रतं गृहमेधिनाम् । चातुर्मासाऽऽदिनियमादथवा स्वल्पकालिकम् ॥४॥ द्वयं गुणव्रतम् । क्रियते यत्र नैयत्यं, शक्त्या भोगोपभोगयोः । गुणव्रतं द्वितीयं तु, भोगोपभोगनामकम् ॥१॥ यः सकृद्भुज्यते सोऽन्नस्स्रगाऽऽदिर्भोग उच्यते । भोग्यो मुहुर्मुहुः स्त्र्यादिरुपभोगः स सम्मतः ॥२॥ मदिरामांसम्रक्षणमधूदुम्बरपञ्चकम् । अनन्तकायाऽन्यज्ञातफलानि भोजनं निशि ॥३॥ दिग्विरतिव्रतादीनुद्दिश्य प्रभोर्देशना । ४५३

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212