Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
राजन्नेष किल स्वार्थो दुष्प्राप्यस्य नृजन्मनः । तद्यतस्वैहिकं मुक्त्वा, सुखे ह्यामुष्मिके भृशम् ॥८१॥
1
श्रुत्वेति राजा सुलभबोधिबीजः सुभावतः । जैनाचार्यान् गुरून् कृत्वा, सम्यक्त्वं जगृहे तदा ॥८२॥ अन्योऽपि राजलोकोऽथ, पौरलोकश्च भावतः । जैनाचार्योपदेशेन, जिनधर्मपरोऽभवत् ॥८३॥ राज्ञः प्राणप्रियः पुत्रो, नाम्ना धर्ममतिः स तु परिग्रहपरीमाणं, मितमादाद्गुरोः पुरः ||८४॥ सूरीन् विसृज्य राजाऽथ, बभूव धर्मतत्परः । धर्मान्मतिः कुमारोऽपि, किञ्चित्परिग्रहोऽभवत् ॥८५॥ आयुःपूर्तौ नृपो धर्मप्रभावात् प्रययौ दिवम् । ततोऽमात्यैर्नृपपदेऽभाणि धर्ममतिः स तु ||८६|| आत्ते राज्ये परिग्रहो भूयान् स्यादिति निःस्पृहः । कुमारो नाऽग्रहीद्राज्यं, परिग्रहनियन्त्रितः ॥८७॥ त्यक्तराज्योऽपि स जने, मान्योऽभूदिन्द्रवत्सदा । बुद्धिमांश्च प्रतापी च धर्मे श्लाघां जगाम च ॥८८॥ त्रुटत्परिग्रहः सोऽथ, कुमारो गृहमेधिनाम् । प्रपाल्य व्रतमादाय, पूर्णायुर्दिव्यभूद्धरिः ॥८९॥ इति धर्ममतिः स्वल्पपरिग्रहव्रतो यथा । प्राप शक्रत्वमित्थं स्यादन्योऽपि निष्परिग्रहः ॥९० ||
४५२
इति परिग्रहपरिमाणे धर्ममतिकथा ॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212