Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
संसारिणो द्विधा जीवाः, स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः ॥५॥
पर्याप्तयश्च षडिमा:, पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि, प्राणो भाषा मनोऽपि च ||६|| स्युरेकाऽक्षविकलाऽक्षपञ्चाऽक्षाणां शरीरिणाम् । चतस्रः पञ्च षड् वाऽपि, पर्याप्तयो यथाक्रमम् ॥७॥ एकाऽक्षा: स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः, स्युः सूक्ष्मा बादरा अपि ॥८॥ प्रत्येकाः साधारणाश्च, द्विप्रकारा महीरुहः । तत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्मबादराः ||९|| त्रसाद्वित्रिचतुःपञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा, सञ्ज्ञिनोऽसञ्ज्ञिनोऽपि च ॥१०॥ शिक्षोपदेशाऽऽलापान् ये, जानते तेऽत्र सञ्ज्ञिनः । सम्प्रवृत्तमन:प्राणास्तेभ्योऽन्ये स्युरसञ्ज्ञिनः ॥११॥
स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥१२॥ द्वीन्द्रियाः क्र[ कृ] मयः शङ्खा गण्डूपदा जलौकसः कपर्दाः शुक्तिकाऽऽद्याश्च विविधाऽऽकृतयो मताः ॥ १३॥ यूकामत्कुणमत्कोटलिक्षाऽऽद्यास्त्रीन्द्रिया मताः । पतङ्गमक्षिकाभृङ्गा दंशाऽऽद्याश्चतुरिन्द्रियाः ||१४|| तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका मानवा देवा सर्वे पञ्चेन्द्रिया मताः ॥१५॥
मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्वासनिःश्वासाविति प्राणा दश स्मृताः || १६॥
४५६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212