Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 196
________________ आमगोरससम्पृक्तद्विदलं पुष्पितौदनम् । दधि दिनद्वयाऽतीतं, कुथिताऽन्नं च वर्जयेत् ॥४॥ तृतीयं गुणव्रतम् । आर्त्तरौद्रध्यानाऽऽधिक्यं, पापव्यापारयोजनम् । हिंसोपकरणदानं, प्रमादाऽऽचरणं तथा ॥१॥ देहाऽद्यर्थदण्डभिन्नोऽनर्थदण्डो हि योपकृत् । सर्वथैव च तत्त्यागस्तृतीयं तद्गुणव्रतम् ॥२॥ सामायिकव्रतम् । आर्त्तरौद्रध्यानत्यागात्, सावद्यकर्मवर्जनात् । समता मुहूर्त्तं या तु, तत्सामायिकमुच्यते ॥१॥ सामायिकव्रताऽरम्भाद्गृहस्थोऽपि यतिर्भवेत् । सामायिकं मनःशुद्ध्या, तन्नित्यं परिशीलयेत् ॥२॥ यथाऽऽत्मा समतां प्राप्य, पञ्चेन्द्रियरिपूञ्जयन् । स्थिरीकुर्वन् मनः पश्येदात्मानमात्मना क्रमात् ॥३॥ सामायिकमुहूर्त्तेनोपासकेन कृतेन भोः ! । अत्रुट्यत् कालो मोक्षोऽपि प्राप्यते किं पुनर्दिवः ? ॥४॥ देशावकाशिकव्रतम् । दिग्व्रते यद्भवेन्मानं, सङ्क्षेपस्तस्य यः सदा । दिने रात्रौ च तद्देशाऽवकाशिकव्रतं मतम् ॥१॥ आत्तेऽपि दिग्व्रतो भूयोऽप्येतस्याऽऽचरणं हि यत् । तन्नित्यमभयदानं, दत्तं स्यात्प्राणिनां नृभिः ||२|| पौषधव्रतम् । चतुर्थाऽऽदितपोऽष्टम्यां चतुर्दश्यां सपर्वणि । ब्रह्मचर्यं स्नानपापकर्मत्यागो हि पौषधम् ॥१॥ ४५४ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212