Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 173
________________ अदत्तादाने दानप्रियकथा | अदत्तेन परस्वेन, लोभादात्तेन देहिनाम् । लुट्यते धर्मसर्वस्वं, ग्राह्यं नाऽदत्तमत्र तत् ॥१॥ अदत्तग्राहिताऽदोषोऽधिरूढः सकृदेव हि । नैवाऽपनीयते जन्तोः, शीतांशोरिव लाञ्छनम् ॥२॥ सत्क्लेशोपार्जनाऽऽदात्तमाशास्थानं धनं नृणाम् । हरतो नरकादन्या, न गतिः परजन्मनि ||३|| यस्त्यजेत् परसर्वस्वं, सुखग्राह्यमपि त्रिधा । स भवेद्विश्वविश्वासस्थानं दानप्रियो यथा ||४|| अस्ति नन्दापुरी तत्र, नन्दो नामाऽस्ति भूपतिः । यत्खड्गाऽम्बु जनाऽऽह्लादि भिनत्ति स्तब्धभूभृतः ॥५॥ तत्राऽऽस्तेऽन्वयदारिद्र्यकष्टभ्रष्टकुलक्रमः । दुःखोत्पन्नाऽऽत्मभरणो दुर्गतो नाम पूरुषः ||६|| तस्याऽस्ति तनयो दानप्रियो नाम शिशुः स च । अन्यदा रममाणोऽभूदाढ्यपुत्रैः सह क्वचित् ॥७॥ अथैकस्याऽऽढ्यपुत्रस्य, रममाणस्य हस्ततः । पपात मुद्रिकारत्नं, धूलौ केनाऽप्यलक्षितम् ॥८॥ अदत्तादाने दानप्रियकथा | ४३१

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212