________________
अदत्तादाने दानप्रियकथा |
अदत्तेन परस्वेन, लोभादात्तेन देहिनाम् । लुट्यते धर्मसर्वस्वं, ग्राह्यं नाऽदत्तमत्र तत् ॥१॥
अदत्तग्राहिताऽदोषोऽधिरूढः सकृदेव हि । नैवाऽपनीयते जन्तोः, शीतांशोरिव लाञ्छनम् ॥२॥ सत्क्लेशोपार्जनाऽऽदात्तमाशास्थानं धनं नृणाम् । हरतो नरकादन्या, न गतिः परजन्मनि ||३||
यस्त्यजेत् परसर्वस्वं, सुखग्राह्यमपि त्रिधा । स भवेद्विश्वविश्वासस्थानं दानप्रियो यथा ||४||
अस्ति नन्दापुरी तत्र, नन्दो नामाऽस्ति भूपतिः । यत्खड्गाऽम्बु जनाऽऽह्लादि भिनत्ति स्तब्धभूभृतः ॥५॥
तत्राऽऽस्तेऽन्वयदारिद्र्यकष्टभ्रष्टकुलक्रमः । दुःखोत्पन्नाऽऽत्मभरणो दुर्गतो नाम पूरुषः ||६|| तस्याऽस्ति तनयो दानप्रियो नाम शिशुः स च । अन्यदा रममाणोऽभूदाढ्यपुत्रैः सह क्वचित् ॥७॥ अथैकस्याऽऽढ्यपुत्रस्य, रममाणस्य हस्ततः । पपात मुद्रिकारत्नं, धूलौ केनाऽप्यलक्षितम् ॥८॥
अदत्तादाने दानप्रियकथा |
४३१