________________
गतः स रन्त्वा गेहे स्वे, पश्चादानप्रियेण तत् । दृष्ट्वा दध्यौ किलैतद्धि, रत्नं भाव्यमुकस्य तु ॥९॥ इत्यादाय कराऽग्रेण, परस्वमित्यसंस्पृशन् । आनीयाऽऽर्पयत्तद्बालपितृभ्यामेष तत्स्वयम् ॥१०॥ आढ्यो दध्यावहो ! अस्य, कीदृग् नि:स्पृहता शिशोः ? । आददीत न बालोऽपि, कोऽन्यो लोभादिदं खलु ? ॥११॥ जातो निःस्वकुले नित्यं, म्रियमाणो बुभुक्षया । इदं यदेष नाऽगृह्णात्, तत्स्वीकार्यः सुशीलतः ॥१२॥ इत्याढ्येनाऽऽत्मना सार्द्ध, भोजयित्वा स षट्रसैः । उक्तस्तिष्ठेस्त्वमत्रैव, भव त्वं मत्सुताऽनुगः ॥१३।। इत्याढ्येन स आदिष्टोऽनुज्ञातो जनकेन च । बभूव तत्सुतसखा स्नेहपात्रं सदैव हि ॥१४॥ अथाऽऽढ्येन निजः पुत्रः, पण्डितस्य समर्पितः । पठनाय ततोऽधीते, कष्टात् प्रज्ञाजडः स तु ॥१५॥ दानप्रियस्तु यत्किञ्चिदध्यापयति पण्डितः । तत्सर्वमर्थसूत्राभ्यां, चक्रेऽभ्यस्तं स्वनामवत् ।।१६।। आढ्यश्रेष्ठी तु यद्दत्ते, द्रव्यं दानप्रियाय तु । दानप्रियत्वादेषोऽपि, दत्ते पात्रेषु तत्स्वयम् ॥१७|| ततश्चाऽऽसन्नव्यन्तर्या, दध्ये दानप्रियो ह्यसौ । बालोऽपि निःस्पृहः कीदृक् ?, परीक्ष्योऽयं मया ततः ॥१८।। ततः सा पुरुषीभूय, दानप्रियं बहिर्गतम् । पुरोभूयाऽवदद्यत्ते, पिता मेऽस्ति ऋणी खलु ॥१९॥ तहणेन त्वमृणी मे, तद्रव्यं देहि मेऽधुना । इत्युक्त्वा सा करे धृत्वा, तं निनाय क्वचिद्गिरौ ॥२०॥
४३२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।