________________
प्रोचे दानप्रियं साऽथ, द्रव्यं मे देहि सत्वरम् । स प्राह मे धनं नाऽस्ति, ततस्तत्ते ददे कुतः ? ॥२१।। सा प्राह चेत्पुरे तेऽस्ति, द्रव्यं त्वं चल तत्र तत् । तत्राऽपि देहि मे द्रव्यं, मोक्ष्यामि त्वां हि नाऽन्यथा ॥२२॥ प्राह दानप्रियो ना, नो वा पुरेऽस्ति मे धनम् । तत्कुतस्तद्ददे त्वं तु यद्रोचते कुरुष्व तत् ॥२३।। व्यन्तर्या स ततो बद्ध ऊर्ध्वपाद्वटभूरुहि । देहि मे द्रव्यमित्युक्त्वा, लताभिर्हन्यते स्म सः ॥२४।। साऽथ मार्गे तदाऽऽसन्ने, यातोऽध्वन्यान् विनिर्ममे । विचक्रे पतितं भूमौ, तेभ्योऽथ रत्नकुण्डलम् ॥२५।। दूरं गतेषु पान्थेषु, साऽऽह दानप्रियं ततः । अरे ! पश्यसि पान्थानां, कुण्डलं पतितं भुवि ? ॥२६।। स्वेनाऽऽदाय तदेतच्चेद्दत्से मे ऋणशुद्धये । छुटिष्यसि तदा बन्धादित्थं ते मृत्युरन्यथा ॥२७।। प्राह दानप्रियो नाऽहं, गृहेऽन्यस्वमर्पितम् । एतन्निश्चयलीनस्य, मृत्युर्मे चेत्तदस्तु सः ॥२८॥ श्रुत्वेति व्यन्तरी बन्धादुन्मोच्य तं बुभुक्षितम् । कानने भ्रमयामासाऽविश्रान्तं द्रुतवेगतः ।।२९।। शक्त्याऽथ दर्शयामास, सा क्वाऽपि प्रकटं निधिम् । तमाह च निधेरस्मादेहि लभ्यं धनं मम ॥३०॥ प्राह दानप्रियो नेदं, मद्रव्यं तद्ददामि न । अभोजनान्मरिष्यामि, वरमत्र त्वया धृतः ॥३१॥ श्रुत्वैतव्यन्तरीक्रूरा, मठमेकं चकार सा । तदन्तर्बहुधा भोज्यस्वर्णवस्त्राऽम्बु च न्यधात् ।।३२॥
अदत्तादाने दानप्रियकथा ।
४३३