________________
ततो दानप्रियं मध्ये, रत्नरुद्योतिते मठे । प्रक्षिप्य तत्कपाटानि, दत्त्वा स्वेनाऽभवबहिः ॥३३॥ दानप्रियस्तु तत्प्रेक्ष्य, क्षुधितस्तृषितोऽपि हि । नाऽऽदातुं स्वं मनश्चक्रे, परवस्तुपराङ्मुखः ।।३४।। प्रत्युताऽऽह स आत्मानं, मनः सर्वेन्द्रियाणि च । मा मा कार्युः स्पृहामत्रोपनतेष्वन्यवस्तुषु ॥३५।। इतश्च गान्धर्वपुरे, लक्ष्मीरङ्गाऽऽख्यभूपतेः । पुत्रस्याऽभूद्दाहज्वरो ह्यनिवर्त्यः किलौषधैः ॥३६।। ततश्च तत्पुरप्रान्तपद्रयक्षस्य भूपतिः । विदधेऽभ्यर्थनां पुत्रज्वरशान्त्यै चटूक्तिभिः ॥३७।। सम्यग्दृष्टिः स यक्षोऽथ, दध्यौ चेतसि यन्मया । न चक्रे जिनधर्मस्य, भवे क्वाऽपि प्रभावना ॥३८॥ तेनाऽस्म्यल्पर्द्धिको जातो हीनो व्यन्तरजन्मनि । जिनधर्मं विना किं स्युर्जन्तोः स्वर्गाऽऽदिसम्पदः ? ॥३९॥ तदिदानी तथा कुर्वे, राजपुत्रज्वरत्रुटिम् । यथा जिनेन्द्रधर्मोऽत्र, सदाऽप्योजायते स्थिरः ॥४०॥ अस्त्येव किंवदन्तीयं, पुरेऽत्र यत्क्वचिद्भुवि । निखाताऽस्त्यादिमजिनमूर्तिश्चन्द्राऽश्मनिर्मिता ॥४१।। नाऽन्यैः सा दृश्यते नैवाऽऽकृष्यते किन्त्वियं श्रुतिः । यो हि स्यान्निःस्पृहस्तस्य, मूर्द्धस्था निःसरत्यसौ ॥४२।। कः सम्भाव्यस्ततस्तादृग्निःस्पृहोऽत्रेति विचिन्तयन् । स यक्षोऽवधिनाऽज्ञासीत्तत्र दानप्रियं मठे ॥४३।। तं महानिःस्पृहं ज्ञात्वा, स यक्षो मुमुदेऽधिकम् । एतन्मू| प्रभोर्मूर्तिः, प्रादुःकार्येत्यचिन्तयत् ॥४४।।
४३४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।