________________
साक्षाद्भूत्वा ततो यक्षो नृपायैवं न्यवेदयत् । चन्द्राऽश्ममयाऽर्हन्मूर्त्तिर्निर्गताऽद्य भुवस्तलात् ॥४५॥
उद्यच्चन्द्रांशुभिः स्पृष्टा, सा द्रवत्यमृताऽम्बु यत् । सिञ्चेस्त्वं तेन पुत्राऽङ्गं, यथा स्यान्निर्ज्वरः स तु ॥४६॥ ततस्त्वं नृप ! गच्छाऽऽशु, स्थानेऽमुष्मिस्तु तत्र च । दूरात्कारय भूशुद्धि, प्रादुःष्यात् प्रतिमा यथा ॥४७॥ इत्यादिष्टः स यक्षेण, राजाऽगात्तत्र सत्वरम् । भूमिशुद्धिं विधाप्यैषोऽस्थाज्जनोऽन्योऽपि चाऽगमत् ॥४८॥ ततो यक्षः प्रभोर्मूर्त्तेर्दानप्रियमठस्य च । अन्तरालमहीमध्ये, सुरङ्गां शक्तितो ददौ ॥४९॥
यक्षः स्वेनैत्य तत्राऽऽशु, मठे दानप्रियं क्षणात् । सुरङ्गया समानीय, प्रभुमूर्तेरधो न्यधात् ॥५०॥
यक्षो दानप्रियं प्रोचे, पुरुष ! प्रतिमामिमाम् । मूर्ध्वोत्पाट्य चलोर्ध्वं त्वं कर्त्ता सान्निध्यमस्मि यत् ॥५१॥
इति दानप्रियस्तेन, प्रोक्तः स्वशिरसा क्षणात् । उत्पाट्य प्रतिमां प्रौढां, भुवं प्रस्फोटय निर्ययौ ॥५२॥
तन्मस्तकस्थितां प्रादुर्भवन्तीं वीक्ष्य तां क्षणात् । जय जय जिनेन्द्र ! त्वमिति प्रोचुर्नृपाऽऽदयः || ५३॥ जातेऽथ हर्षतुमुले, लोकानां निर्ययौ भुवः । दानप्रियः सकलोऽपि, भारे तावत्यपि स्थिरः ||५४ || दृष्ट्वा दानप्रियं लोकः, प्रोचे कथमयं भुवि । प्रविष्टः ? कथमेतां च शशाकोर्द्धर्त्तुमेकक: ? ॥५५॥
न शक्या सेयमुद्धर्त्तु, निःस्पृहेण विना खलु । यदनेनोद्धृता तत्स्यादेषोऽतिनि:स्पृहः पुमान् ॥५६॥
अदत्तादाने दानप्रियकथा |
४३५