________________
ततो यक्षः प्रभोर्मूर्तिमुद्धर्तुं स्वर्णनिर्मितम् । दानप्रियप्रतिबिम्बं, विन्यस्याऽधश्चकर्ष तम् ॥५७।। ततो दानप्रियं लोकोऽवददाशिषमुच्चकैः । वर्द्धयत्यक्षतैः पूर्णेजिनोद्धाराऽऽत्तपुण्यकम् ।।५८।। उद्ययौ च ततश्चन्द्रः, स्पृष्टस्तद्रश्मिभिः प्रभुः । चन्द्रकान्तमयत्वेनाऽक्षरन्निर्झरवत्पयः ॥५९।। ततश्च पयसा तेन, सिक्तो राज्ञा निजः सुतः । बभूव च पटुः सोऽथाऽन्योऽप्याशु रोग्यभूदरुक् ॥६०॥ ततो यक्षः क्षणात्तत्र, रत्नप्रासादमादधौ । आराध्योऽयं सदा भूपमित्यादिश्य तिरोदधे ॥६१।। पुष्यन्मनोरथो राजा, लोकश्च स्वामिनं प्रति । आसीन्निबिडभक्तित्वात्पूजाऽऽराधनतत्परः ॥६२॥ समानीतोऽमुना स्वामी, भुवो मध्यादगाधतः । निःस्पृहाणां च धुर्योऽयं, तत्कुर्वे मन्त्रिणं ह्यमुम् ॥६३।। इत्यालोच्य नृपः सम्यक्, चक्रे दानप्रियं मुदा । सर्वमुद्राव्यापारेषु, निसृष्टं मुख्यमन्त्रिणम् ॥६४।। स निःस्पृहव्यापरणान्नाऽशुभैः समबन्धयत् । किन्तु नीत्या प्रजारक्षन्, यशोधर्ममुपार्जयत् ॥५॥ इत्थं प्रभुत्वमासाद्य, परद्रव्यविवर्जनात । जिनदीक्षामवाप्याऽन्ते, स्वर्गं दानप्रियो ययौ ॥६६॥ तस्मात्परधनवर्जननियमनयन्त्रे निधाय चेतोद्रुम् । शुभभावटङ्कघटनात्कुरु सुखपात्रं त्वमात्मानम् ॥६७।।
इत्यदत्तादाने दानप्रियकथा ॥
४३६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।