________________
चतुर्थव्रते मदनमञ्जरीकथा ।
प्रभवन्ति रुजो नाऽङ्गे, विलीयन्ते ह्युपद्रवाः । जायन्ते सिद्धयः सर्वा यस्मात्तद्ब्रह्म सेव्यताम् ॥१॥ निर्वाति ज्वलनो नीरपूरो व्यावर्त्तते द्रुतम् । व्याघ्राऽहिराक्षसाः स्निह्यन्त्यस्य यो ब्रह्मचर्यकृत् ॥२॥ अल्पाऽऽहाराद्वपुःशोषस्ततोऽक्षाणाममत्तता । मनःस्थैर्यं ततस्तस्माद्ब्रह्मरक्षा ततः शिवम् ।।३।। ततो नियमकष्टानि, दुष्कराणि व्रतानि च । फलन्ति सेवनाद्यस्य, सेवध्वं ब्रह्म तत् स्थिरम् ।।४।। तच्छीलाऽपरपर्यायं, सर्वव्रतशिरोमणि । जायते भविनां सिद्ध्यै, राजपुत्रकलत्रवत् ॥५॥ अस्ति पूर्वनरम्याऽऽख्या, यद्वनेषु जनेष्विव । दत्त्वा फलश्रियं नाऽभूत्पश्चात्तापः कदाचन ॥६।। राजाऽभूत्तत्र भूभीमो, यस्य खड्गदवानलः । आयान्न स्खलितः क्वाऽपि, भूभृत्कटककोटिभिः ।।७।। तस्य राज्ञः कुमारोऽस्ति, सूरसेनाऽभिधः सुधीः । मदनमञ्जरी नाम, कुमारस्याऽस्ति वल्लभा ॥८॥
चतुर्थव्रते मदनमञ्जरीकथा ।
४३७