________________
अन्यदा कोऽपि योगीन्द्र इन्द्रजालविदांवरः । अदृश्यकाऽरिप्रयोगे, कुमारेणाऽन्वयुज्यत ॥९॥ स दध्यौ मायिकः साधु पृष्टं स्वेनाऽमुना ह्यदः । कृत्वाऽऽडम्बरमेवाऽत्र, साधयामि समीहितम् ।।१०।। ततः प्राह कुमारं स मयाऽऽकृष्टं पतद्दिवः । प्रतीष्य व्यात्तवक्त्रेण, ऋक्षं यो भक्षयेत्पुमान् ।।११।। तदैव च मया दत्तमन्त्रेण दीक्षितो निशि । यदाऽभीष्टमदृश्यः स्यात्, स तदा नाऽत्र संशयः ।।१२।। निशम्येति कृतश्रद्धः, कुमारोऽभ्यासमादधौ । व्योम्न्युच्छाल्य पुनः पाति, पूगाऽऽद्यादातुमुन्मुखः ॥१३॥ ततः कृष्णचतुर्दश्यां, पुराऽऽसन्ननदीतटे । आलिख्य मण्डलं योगी, कुमारं स्वयमन्वशात् ॥१४॥ मया मन्त्रैः पात्यमानं, नक्षत्रमुन्मुखो गिलेः । त्वं मा दा दृशमन्यत्र, पश्यंस्तिष्ठेर्नभः पुनः ॥१५।।
ओमित्युक्त्वा कुमारेऽथ, पश्यत्यम्बरमुन्मुखे । योगी दिव्यौषधीपिण्डी, चिक्षेपोच्चैर्नभस्यथ ।।१६।। क्रमेणौषधपिण्डी सा, पतन्ती नभसो द्रुतम् । स्पृष्टाऽनिलेन जज्वाल, दिव्यौषधप्रभावतः ॥१७॥ एतन्नक्षत्रमभ्येति, सावधानो गिल [किल ?] द्रुतम् । इत्युक्तो योगिना शीघ्रं, कुमारस्तत्तथाऽकरोत् ॥१८॥ गिलिता च कुमारेण, सा दिव्यौषधपिण्डिका । सोऽभूच्च तत्क्षणात् स्वर्णपुरुषो गतजीवितः ॥१९।। तं तथा वीक्ष्य योगीन्द्रो दध्यौ सिद्धं समीहितम् । तन्निःखनाम्यधो ह्येनं, यथा पश्यति नाऽपरः ॥२०॥
४३८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।