________________
विलम्ब्य च ग्रहीष्यामि, तमिति न्यखनद्भुवि । कृत्वाऽभिज्ञानमन्यत्र, गत्वा सुष्वाप योग्यथ ॥२१॥ इतश्च नगरे तस्मिन् दरिद्रः कोऽपि तिष्ठति । तस्य जातास्तु पुत्र्योऽष्टावन्धाः पङ्ग्वश्च सन्ति ताः ॥२२॥ पिङ्गाऽक्ष्यः पिङ्गकेश्यश्च, कपिलाऽङ्ग्यः खरस्वराः । चिपिटनासिकाः स्थूलकुक्षिपादकराश्च ताः ॥२३॥ दरिद्रोऽपि दरिद्रत्वान्निर्विण्णस्तास्वचिन्तयत् । एता रण्डा हि मां भोक्तुमुत्पन्ना मम वेश्मनि ॥२४॥ स्त्रीहत्या भाविनी चेन्मे, तदस्तु सा तथाऽप्यहम् । क्वाऽप्येता निखनिष्यामि, यद्ग्रासं दातुमक्षमः ||२५|| अन्धाः पङ्ग्वस्तथैता हि, बाला दुष्कर्मणा कृताः । दुष्कर्मभिः समाप्यन्ते, ततो दोषो ममाऽस्ति न ||२६|| इति ध्यात्वा दरिद्रोऽसौ शकटे न्यस्य तास्तदा । योगिन्यस्तः स्वर्णपुमान्, यत्राऽऽस्ते तत्र सोऽप्यगात् ॥२७॥
सुवर्णपुरुषस्थानं, खनित्रैरखनत् स तु । ततश्चाऽऽविर्बभूवाऽऽशु, सुवर्णपुरुषोऽत्र सः ||२८||
तं समीक्ष्य दरिद्रोऽथ, भयविस्मयहर्षवान् । दध्यौ किमिदमाश्चर्यं, यदसौ दृश्यते मया ॥२९॥
वेद्मि पूर्वाऽर्जिताऽऽत्मीयपुण्यमानं हि यादृशम् । न मे भावि सुखं भोज्याऽऽच्छादनाऽऽद्यैर्हताऽऽत्मनः ||३०|| किन्त्वासामन्धपङ्गनां पुत्रीणां कर्मभिः शुभैः । प्राप्तोऽयं तन्नयाम्येताः, पुनर्गेहे सहा मुना ||३१॥
इत्यालोच्य दरिद्रोऽसौ, तं स्वर्णपुरुषं भुवः । आकृष्य न्यस्य शकटे, निनायौकसि हर्षतः ||३२||
चतुर्थव्रते मदनमञ्जरीकथा ।
४३९