________________
एकान्ते तं विमुच्याऽथ, स चिच्छेद तदङ्गुलीम् । तत्कालं निःसृता साऽन्या, ततो निःस्वो जहर्ष च ॥३३॥ तत स्वर्णाऽङ्गलीखण्डैरक्रीणाद्वस्तुसञ्चयम् । ततो भोजनवस्त्राऽऽद्यैर्दरिद्रः सोऽभवत् सुखी ||३४|| सुवर्णपुरुषाऽङ्गाणि, छित्त्वा विक्रीय नित्यशः । बभूवाऽऽढ्यतमः पुर्यामपर्याप्तपरिच्छदः ||३५|| ततः स दध्यौ पुत्रीणां, पुण्यैरासाद्यते ह्यसौ । बध्नाम्येतास्ततोऽस्यैवाऽङ्गेषु शृङ्खलया दृढम् ||३६|
ध्यात्वेति करपादेषु, बद्ध्वा स प्राह पुत्रिका: । यदा याति तदा ह्येष, धार्यो युष्माभिरादरात् ॥३७॥ तं प्रतीदं च वक्तव्यं, चिराद्दृष्टः क्व यासि तत् ? । न मोक्ष्यामः कदाऽपि त्वामस्मद्भक्ष्यं यदस्यहो ! ||३८|| इति तच्छिक्षिताः पुत्र्यो बद्धास्तत्रैव भुञ्जते । क्रीडन्ति शेरते सौख्यसौहित्योपचिताऽङ्गिकाः ॥ ३९॥ ततश्चाऽदृश्यमानोऽसौ, सूरसेननृपाऽङ्गजः । परिच्छदेन विज्ञप्तो भूमीमस्य महीपतेः ॥४०॥ इतस्ततश्च तेनाऽपि, वीक्षितो राजपूरुषैः । स नाऽदर्शि ततो द्रङ्गरवोऽवाद्यत भूभुजा ॥४१॥ केनाऽप्यकथ्यमानेऽस्मिन्, द्वितीयनिशि योग्यथ । गत्वा गृह्णामि तमिति, स्वर्णपूरुषभुव्यगात् ॥४२॥ यावत्पश्यति तत्स्थानं, तावद्ददर्श नाऽत्र तम् । हा ! हतोऽस्मीती चाऽऽक्रन्द्य स योगी द्राग् मुमूर्च्छ च ||४३||
मूर्च्छाऽन्तेऽथ सदध्यौ च, नीतः पौरेण केनचित् । स मे सुवर्णपुरुषस्तद्राज्ञा लप्स्यते ह्यसौ ॥४४॥
४४०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।