________________
किन्तु दुष्कर्मभिः स स्यान्मलिनोऽथ सुकर्मभिः । स्यान्निर्मलस्ततः कार्यं, सुकर्मोपार्जने मनः ॥५७॥
वदत्येतत्स्मरसुते, समागात् कोऽपि केवली । राजानं प्रति चक्रे स देशनां शुद्धिदायिनीम् ॥५८॥ ततो राजा प्रबुद्धः स तदन्ते जगृहे व्रतम् । कामपताकाऽपि श्रुत्वा, जगृहे व्रतमुत्तमम् ॥५९॥ अन्याऽ Iऽन्वयोद्भवायाऽपि सत्यत्वात् स्वीकृताय तु । स्मरपुत्राय दत्त्वर्द्धि, प्राव्राजीद्विमोऽपि हि ॥ ६०॥ अथ स स्मरपुत्रोऽपि, गृहस्थव्रतधारकः । सत्यव्रतं प्रपाल्यैव, व्रतादानाद्ययौ शिवम् ॥ ६१॥
४३०
इति सत्यव्रते स्मरनन्दनकथा ॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।