________________
तां स्मराऽऽत्मभवः प्राह, नैवाऽसत्यं वदामि यत् । धर्मोक्षा दुःखरक्ष्यः स्यात्, सत्यवाग्वृत्तिभङ्गतः ॥४५॥ कामपताका तं प्रोचे, पापं भावि यदत्र ते । तन्मे भूयाद्यद्वाग्दत्तं, लभ्यते हि शुभाऽशुभम् ॥४६।। लौकिकव्यवहारोऽयं, नाऽऽगमा ब्रुवते ह्यदः । सत्याऽसत्यफलप्राप्तिर्वक्तुस्तन्न ब्रुवे मृषा ॥४७।। स्मरस्य नन्दनेनेति, प्रोक्ता प्रोवाच कोपतः । मद्वाचं चेन्न कर्ताऽसि, तदकाले मरिष्यसि ॥४८।। स्मरस्य नन्दनोऽवादीद्विधेहि यद्यथोचितम् । वरं हि मृत्युमिच्छामि, न त्वसत्यं वदाम्यहम् ॥४९।। कामपताका तु नीचैर्गोत्रा सुलभदुर्नया । एनं प्राबन्धयद्गाद, कशाभिमा॑गताडयत् ॥५०॥ तथाऽप्यमन्यमानोऽसौ, नृपाऽऽदेशाद्गवेषकैः । राजाऽध्यक्षैस्तत्र दृष्ट्वा, नीतो द्राग् नृपतेः पुरः ॥५१॥ पृष्टश्च तक्षणाद्राज्ञा, सत्या वा शुकवाग् न वा ? । ततो दध्यौ स्मरसुतः, कुर्वेऽत्र किमहं किल ? ॥५२॥ कथयिष्यामि चेत्सत्यं, विलक्षो नृपतिस्तदा । कर्ता विरूपं पत्न्यां तत्सत्यमप्यहितं मृषा ।।५३।। अथवा ज्ञायते वाग्भिर्नृपो वैराग्यवानभूत् । कर्ता नैवाऽहितं क्वाऽपि, किन्तु कर्ता शुभं खलु ॥५४|| इत्यालोच्य स्मरसुतः, प्रोवाच शुकवाग् नृप !। भाति सत्येव किञ्च त्वं, मालिन्यं मास्म मन्यथाः ।।५५।। कर्मप्रभावादात्माऽयं, व्यवहारोत्तमाऽधमान् । प्रविशन् विग्रहगृहान् , नैव स्यान्मलिनः खलु ॥५६॥
सत्यव्रते स्मरनन्दनकथा ।
४२९