Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 188
________________ पापभीरुस्तपोधनः । अधीती पण्डितः प्राज्ञः, स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥९॥ ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः । जगत्सम्मोहजननी, यैराशाऽऽशीविषी जिता ॥ १० ॥ सुखं सन्तोषपीयूषजुषां स्ववशिनां हि यत् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः ? ॥११॥ कृते परिग्रहे माने, सर्वव्रतकृतिर्भवेत् । सुखाऽऽस्वादश्च तस्य स्यात्, सम्यग्धर्ममतेरिव ॥१२॥ अस्ति कुमुद्वती नाम, पुरी कुमुदसोदरा । यद्दधाति श्रियं राज्ञा, लालिता मृदुभिः करैः ॥ १३॥ रणे नम्रशिरश्चापं, चक्रे तदनुभूभुजः । येन सोऽस्ति नृपस्तत्र, रणसूराऽभिधो जयी ॥१४॥ रणसूरस्य पुत्रोऽस्ति, नाम्ना धर्ममतिः सुधीः । अन्यदा सदसि क्ष्मापः, सपौरः समुपाविशत् ॥ १५॥ पप्रच्छ भूपतिर्द्वास्थं कोऽप्यस्ति ज्ञानवित्पुरे ? | सन्ति दर्शनिनस्तेनेत्युक्तेऽथाऽऽकारयत् स तान् ॥१६॥ समागत्योपविष्टांस्तान्, राजा पप्रच्छ साऽञ्जसम् । त्रिकालज्ञानविषये, ब्रूत प्रत्ययमत्र मे ||१७|| ज्ञातृत्वोत्सेकवान् कोऽपि द्विजः प्राह पुरैव हि । राजन् ! श्रेष्ठिधनाढ्यस्य, सायं भार्या मरिष्यति ॥१८॥ एष मे प्रत्ययो ज्ञाने, ततो बौद्धं नृपोऽवदत् । यदेष ब्राह्मणः प्राह, तत्सत्यं भविता न वा ? ॥१९॥ बौद्धः प्राह नृपैतद्वाग्, मिथ्यैव यद्वणिप्रिया । वर्षाणां विंशतिं सम्यग्, जीविष्यति ह्यतः परम् ॥२०॥ ४४६ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212