Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 187
________________ परिग्रहपरिमाणे धर्ममतिकथा । धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी । द्विपाच्चतुष्पाच्चेतिः स्युर्नव बाह्याः परिग्रहाः || १॥ रागद्वेषौ कषायाः शुग्घासो रत्यरती भयम् । जुगुप्सा वेद-मिथ्यात्वे, आन्तराः स्युश्चतुर्दश ॥२॥ बाह्यात्परिग्रहात् प्रायः, प्रकुप्यन्त्यान्तरा अपि । प्रावृषो वृश्चिक-सर्पविषजोपद्रवा इव ॥३॥ प्राप्तप्रतिष्ठानपि च, वैराग्याऽऽदिमहाद्रुमान् । उन्मूलयति निर्मूलं, परिग्रहमहाबलः ||४|| परिग्रहनिषण्णोऽपि, योऽपवर्गं विमार्गति । स हि लोहोडुपेनेवाऽम्भोधि तरितुमिच्छति ||५|| बाह्याः परिग्रहाः पुंसां, धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते, समिधामिव वह्नयः ||६|| बाह्यानपि हि यः सङ्गान्न नियन्त्रयितुं क्षमः । जयेत् क्लीबः कथं सोऽन्तः परिग्रहचमूममूम् ? ||७|| यदीच्छसि सुखं धर्मं, मुक्तिसाम्राज्यमेव वा । तदा परपरीहारादेकामाशां वशीकुरु ॥८॥ परिग्रहपरिमाणे धर्ममतिकथा । ४४५

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212