Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 191
________________ स्वयं कोटरोपरिस्थेनाऽलक्षितोऽतिभारवान् । पानीयहारिणीमूर्ध्न उत्सार्योर्ध्वघटं शनैः ॥४५॥ मुक्तः सोऽहिघटस्तस्याः, शिरसि सा त्वजानती । कष्टादवाप्य पन्थानमृजें याति पुरीं प्रति ॥४६।। स ग्रामदारकोऽप्याशु, याति तामनुदूरतः । दध्यौ च दक्ष्यते सर्यस्तस्य जीवकोऽस्म्यहम् ॥४७।। पानीयहारिणी यान्ती, सस्मार यन्मयाऽद्य हि । द्विघटकानि देयानि, धनाढ्यश्रेष्ठिनो गृहे ॥४८॥ ततस्तत्र क्षिपाम्यम्भो ध्यात्वेति तद्गृहं ययौ । दत्तद्वारे च तत्राऽस्थात्, कुर्वती शब्दमुच्चकैः ॥४९॥ इतश्च ये धनाढ्येन, नरा दिनाऽत्ययक्षणे । मुक्ता आसन् गतोऽर्कोऽस्तमिति ते तालिका ददुः ॥५०॥ नाऽतः परं हि मे मृत्युम॒त्योः पूर्णोऽवधिर्यतः । इति सा श्रेष्ठिभार्याऽभूत्, स्वचित्ते गतमृत्युभीः ॥५१॥ पानीयहारिणी साऽथ, शब्दमुच्चैर्मुहुर्व्यधात् । कोपादिव श्रेष्ठिभार्योर्ध्वघटोत्तारणे ययौ ।।५२।। द्वारमुद्घाट्य क्रोशन्ती, घटकण्ठे न्यधात् करम् । गलनकमिति बन्धवस्त्रं तदुदसारयत् ।।५३।। अधः किञ्चिद्गते हस्ते, सर्पास्तदङ्गलीः पृथक् । बुभुक्षाऽन्धा इवाऽत्यर्थं, ददंशुः परिवर्तनात् ।।५४। तयाऽऽकृष्टे बहिर्हस्ते, लग्नास्तेऽप्याययुर्बहिः । तान् दृष्ट्वा तद्विषाऽऽक्रान्तदेहा सा मूर्च्छिताऽपतत् ॥५५।। श्रेष्ठी चाऽन्ये च तल्लोका दधावु शरोदिनः । सर्पाश्च तद्भयान्नेशुर्विविशुर्विवरेषु च ॥५६॥ परिग्रहपरिमाणे धर्ममतिकथा । ४४९

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212