Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 182
________________ एकान्ते तं विमुच्याऽथ, स चिच्छेद तदङ्गुलीम् । तत्कालं निःसृता साऽन्या, ततो निःस्वो जहर्ष च ॥३३॥ तत स्वर्णाऽङ्गलीखण्डैरक्रीणाद्वस्तुसञ्चयम् । ततो भोजनवस्त्राऽऽद्यैर्दरिद्रः सोऽभवत् सुखी ||३४|| सुवर्णपुरुषाऽङ्गाणि, छित्त्वा विक्रीय नित्यशः । बभूवाऽऽढ्यतमः पुर्यामपर्याप्तपरिच्छदः ||३५|| ततः स दध्यौ पुत्रीणां, पुण्यैरासाद्यते ह्यसौ । बध्नाम्येतास्ततोऽस्यैवाऽङ्गेषु शृङ्खलया दृढम् ||३६| ध्यात्वेति करपादेषु, बद्ध्वा स प्राह पुत्रिका: । यदा याति तदा ह्येष, धार्यो युष्माभिरादरात् ॥३७॥ तं प्रतीदं च वक्तव्यं, चिराद्दृष्टः क्व यासि तत् ? । न मोक्ष्यामः कदाऽपि त्वामस्मद्भक्ष्यं यदस्यहो ! ||३८|| इति तच्छिक्षिताः पुत्र्यो बद्धास्तत्रैव भुञ्जते । क्रीडन्ति शेरते सौख्यसौहित्योपचिताऽङ्गिकाः ॥ ३९॥ ततश्चाऽदृश्यमानोऽसौ, सूरसेननृपाऽङ्गजः । परिच्छदेन विज्ञप्तो भूमीमस्य महीपतेः ॥४०॥ इतस्ततश्च तेनाऽपि, वीक्षितो राजपूरुषैः । स नाऽदर्शि ततो द्रङ्गरवोऽवाद्यत भूभुजा ॥४१॥ केनाऽप्यकथ्यमानेऽस्मिन्, द्वितीयनिशि योग्यथ । गत्वा गृह्णामि तमिति, स्वर्णपूरुषभुव्यगात् ॥४२॥ यावत्पश्यति तत्स्थानं, तावद्ददर्श नाऽत्र तम् । हा ! हतोऽस्मीती चाऽऽक्रन्द्य स योगी द्राग् मुमूर्च्छ च ||४३|| मूर्च्छाऽन्तेऽथ सदध्यौ च, नीतः पौरेण केनचित् । स मे सुवर्णपुरुषस्तद्राज्ञा लप्स्यते ह्यसौ ॥४४॥ ४४० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212