Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 181
________________ विलम्ब्य च ग्रहीष्यामि, तमिति न्यखनद्भुवि । कृत्वाऽभिज्ञानमन्यत्र, गत्वा सुष्वाप योग्यथ ॥२१॥ इतश्च नगरे तस्मिन् दरिद्रः कोऽपि तिष्ठति । तस्य जातास्तु पुत्र्योऽष्टावन्धाः पङ्ग्वश्च सन्ति ताः ॥२२॥ पिङ्गाऽक्ष्यः पिङ्गकेश्यश्च, कपिलाऽङ्ग्यः खरस्वराः । चिपिटनासिकाः स्थूलकुक्षिपादकराश्च ताः ॥२३॥ दरिद्रोऽपि दरिद्रत्वान्निर्विण्णस्तास्वचिन्तयत् । एता रण्डा हि मां भोक्तुमुत्पन्ना मम वेश्मनि ॥२४॥ स्त्रीहत्या भाविनी चेन्मे, तदस्तु सा तथाऽप्यहम् । क्वाऽप्येता निखनिष्यामि, यद्ग्रासं दातुमक्षमः ||२५|| अन्धाः पङ्ग्वस्तथैता हि, बाला दुष्कर्मणा कृताः । दुष्कर्मभिः समाप्यन्ते, ततो दोषो ममाऽस्ति न ||२६|| इति ध्यात्वा दरिद्रोऽसौ शकटे न्यस्य तास्तदा । योगिन्यस्तः स्वर्णपुमान्, यत्राऽऽस्ते तत्र सोऽप्यगात् ॥२७॥ सुवर्णपुरुषस्थानं, खनित्रैरखनत् स तु । ततश्चाऽऽविर्बभूवाऽऽशु, सुवर्णपुरुषोऽत्र सः ||२८|| तं समीक्ष्य दरिद्रोऽथ, भयविस्मयहर्षवान् । दध्यौ किमिदमाश्चर्यं, यदसौ दृश्यते मया ॥२९॥ वेद्मि पूर्वाऽर्जिताऽऽत्मीयपुण्यमानं हि यादृशम् । न मे भावि सुखं भोज्याऽऽच्छादनाऽऽद्यैर्हताऽऽत्मनः ||३०|| किन्त्वासामन्धपङ्गनां पुत्रीणां कर्मभिः शुभैः । प्राप्तोऽयं तन्नयाम्येताः, पुनर्गेहे सहा मुना ||३१॥ इत्यालोच्य दरिद्रोऽसौ, तं स्वर्णपुरुषं भुवः । आकृष्य न्यस्य शकटे, निनायौकसि हर्षतः ||३२|| चतुर्थव्रते मदनमञ्जरीकथा । ४३९

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212