Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 178
________________ ततो यक्षः प्रभोर्मूर्तिमुद्धर्तुं स्वर्णनिर्मितम् । दानप्रियप्रतिबिम्बं, विन्यस्याऽधश्चकर्ष तम् ॥५७।। ततो दानप्रियं लोकोऽवददाशिषमुच्चकैः । वर्द्धयत्यक्षतैः पूर्णेजिनोद्धाराऽऽत्तपुण्यकम् ।।५८।। उद्ययौ च ततश्चन्द्रः, स्पृष्टस्तद्रश्मिभिः प्रभुः । चन्द्रकान्तमयत्वेनाऽक्षरन्निर्झरवत्पयः ॥५९।। ततश्च पयसा तेन, सिक्तो राज्ञा निजः सुतः । बभूव च पटुः सोऽथाऽन्योऽप्याशु रोग्यभूदरुक् ॥६०॥ ततो यक्षः क्षणात्तत्र, रत्नप्रासादमादधौ । आराध्योऽयं सदा भूपमित्यादिश्य तिरोदधे ॥६१।। पुष्यन्मनोरथो राजा, लोकश्च स्वामिनं प्रति । आसीन्निबिडभक्तित्वात्पूजाऽऽराधनतत्परः ॥६२॥ समानीतोऽमुना स्वामी, भुवो मध्यादगाधतः । निःस्पृहाणां च धुर्योऽयं, तत्कुर्वे मन्त्रिणं ह्यमुम् ॥६३।। इत्यालोच्य नृपः सम्यक्, चक्रे दानप्रियं मुदा । सर्वमुद्राव्यापारेषु, निसृष्टं मुख्यमन्त्रिणम् ॥६४।। स निःस्पृहव्यापरणान्नाऽशुभैः समबन्धयत् । किन्तु नीत्या प्रजारक्षन्, यशोधर्ममुपार्जयत् ॥५॥ इत्थं प्रभुत्वमासाद्य, परद्रव्यविवर्जनात । जिनदीक्षामवाप्याऽन्ते, स्वर्गं दानप्रियो ययौ ॥६६॥ तस्मात्परधनवर्जननियमनयन्त्रे निधाय चेतोद्रुम् । शुभभावटङ्कघटनात्कुरु सुखपात्रं त्वमात्मानम् ॥६७।। इत्यदत्तादाने दानप्रियकथा ॥ ४३६ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212