Book Title: Chandraprabh Charitram Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 170
________________ राजाऽऽह मेऽत्र सन्देहोऽभूत् सोऽन्यैर्न निवर्त्यते । जानाम्यसत्याः सर्वेऽपि, नूनं नैमित्तिका अमी ।।३३।। अस्त्यत्र नगरे श्रेष्ठी, विमलस्तस्य विद्यते । स्मरनन्दन इत्याख्यो मानितः पुत्रको गुणी ॥३४॥ स बालब्रह्मचार्येव, सम्यक्त्वाऽऽराधनाप्रियः । स यत्पृच्छति तत्कणे, ब्रूते शासनदेवता ॥३५॥ स चेन्मे कथयत्येतत्ततः प्रत्येमि नाऽन्यथा । तद्वचांसि विना राज्यं, त्यक्त्वा तीर्थानि गम्यहम् ।।३६।। मन्त्री श्रुत्वेति भूपोक्तं, राजपत्नीमुपाययौ । आचख्यौ राजवाचं च, साऽथ श्रेष्ठिनमाह्वयत् ॥३७॥ आख्याय शुकवृत्तान्तमभाणीच्छेष्ठिनं तु सा । तव पुत्रकवाक्येन, प्रत्येति नृपतिस्ततः ॥३८।। तथा त्वया स आदेश्यः, शुकवाचं यथाऽन्यथा । कृत्वा प्रत्यापयत्येष, राजानं ग्रहिलाऽऽग्रहम् ॥३९॥ गत्वा कारय शीघ्रं तदित्यादिश्य स्वयं त सा। सन्मान्य श्रेष्ठिनं वस्त्राऽऽदिभिर्द्राग् विससर्ज च ॥४०॥ गत्वा श्रेष्ठ्यप्यभाणीत्तं, स्मरनन्दनमेष च । शासनदेवीमाराध्याऽपृच्छद्व्यतिकरं हि तम् ॥४१॥ तयाऽऽख्यायि यदेषा हि, नृपभार्याऽन्त्यजाऽन्वया । कार्यो नैवाऽत्र सन्देहः, प्रमाणं शुकवाग् खलु ॥४२॥ ततश्च श्रेष्ठिना सार्द्धं, समेत्य स्मरनन्दनः । चख्यौ तस्यै हि यत्कीरवाचः स्युरन्यथा नहि ॥४३।। कामपताकाऽथ प्रोचे, यद्यप्येवं तथाऽपि हि । राज्ञोऽग्रे शुकवाक्कथ्या, मिथ्या मदुपरोधतः ।।४४।। ४२८ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212