________________
भावनायां असम्मतकथा |
मुक्तषट्जीवहिंसाऽङ्घ्रिर्भावनामालतीं गतः । आत्माऽयं भ्रमरो गच्छेद्रसाऽऽस्वादेन निर्वृतिम् ॥१॥
भवाऽन्तरसहस्रेषु, भ्रमणाद्रजसावृतः । भावनासरिति स्नायाच्चेदात्मा तच्छुचिर्भवेत् ॥२॥
यावत्प्राप्नोति नाऽऽत्माऽयं, भावनामुखचुम्बनम् । तावदन्यत्र संसक्तिः, स्यादस्येति न संशयः ॥३॥ यद्यात्मनि प्रसद्याऽऽत्मा, स्वीकरिष्यति भावनाम् । तदाऽयं लप्स्यते स्वार्थमसम्मतनराऽऽत्मवत् ॥४॥ अस्ति रत्नपुरे राजा, न्यायवानरिमर्दनः । यद्भ्रूभङ्गेन भङ्गः स्यात् ससैन्यानामपि द्विषाम् ॥५॥ ललिताऽङ्गः कुमारोऽस्ति, राज्ञोऽस्य प्राणवल्लभः । वसन्तसमये रत्नुमुद्यानं सोऽन्यदा ययौ || ६ ||
क्रीडता तेन तत्रैका, ददृशे मन्त्रिगेहिनी । प्रशान्तस्याऽपि तस्याऽस्यां बभूव मनसो रतिः ||७|| प्रेष्य मित्रं कथं तन्वि !, भावी नौ सङ्गमः क्व वा ? | अपप्रच्छत् कुमारस्तां, साऽपि प्राहाऽनुरागिणी ॥८॥
४००
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।