________________
अहं त्वभूवमेतस्याः, सुखाऽऽसनस्य वाहकः । अत्र तिष्ठन्नहं लज्जे, मानपुञ्जोऽस्म्यहं यतः ॥४५।। सुखाऽऽसनं परित्यज्याऽन्यत्र क्वाऽपि व्रजाम्यहम् । इति सोऽगाद्वने क्वाऽपि, ददर्श च मुनीनसौ ॥४६।। मुनीनानम्य सोऽप्राक्षीद्धर्मं कथयत प्रभो ! । तैराख्यायि तपः कार्य, यथाशक्त्या हितैषिणा ॥४७॥ मुनीनामग्रतः कृत्वैकभक्तं नित्यशोऽपि सः । अहर्निशं फलान्यादद्रसनेन्द्रियलौल्यतः ॥४८॥ एवं मायातपः कुर्वन्नेष मृत्वा पुरे क्वचित् । निःस्वनीचकुले जज्ञे, स्त्रीत्वेन स ततः परम् ।।४९।। अङ्गोपाङ्गेषु सा व्याधिबाधाकीलककीलिता । आजन्मदिवसात्कष्टं, जुगुप्साऽङ्गी विवर्द्धते ॥५०॥ परप्रेष्यतया जन्म, क्षिपन्ती भाग्यवर्जिता । दुःखदौर्भाग्यदौर्गत्यभाजनं साऽभवत्ततः ॥५१॥ तस्मिन्नपि भवे दौःस्थ्यात्, कृत्वा कर्माऽशुभं महत् । आयुःक्षयेण सा मृत्वा, तृतीये नरके ययौ ॥५२।। विना हि तपसा जीवः, प्राप्नोति न समीहितम् । तपश्छिनत्ति दुष्कर्म, तद्यतध्वं तपोविधौ ।।५३॥
इत्यतपसि मानपुञ्जकथा ॥
अतपसि मानपुञ्जकथा ।
३९९