________________
इतश्च मानपुञ्जः स, वियुक्तोऽपि तया सह । तत्रैणमांसलुब्धत्वाद्वनेऽस्थादेककोऽपि हि ॥३३॥ वर्षाऽऽरम्भेऽन्यदा तस्याऽऽकण्ठं मांसस्य भक्षणात् । अभूदुच्छ्वाससंरोधः, पपात निस्सहो भुवि ॥३४॥ तदैव पूरपूर्णायाः, सरितः श्रोतसा हृतः । वज्राऽऽख्यपू:समीपस्थे, तटे क्वाऽप्यथ सोऽलगत् ॥३५॥ तदा च कीर्तिराजस्य, प्रतिस्कन्धिनराः कति । तत्राऽऽगतास्तमद्राक्षुनिन्युश्च दयया गृहान् ॥३६।।
औषधाऽऽधुपचारेण, कथञ्चिज्जीवितः स तैः । तेषामेव गृहेष्वस्थात्तत्पुत्र्यासक्तमानसः ॥३७॥ स च तैर्नीयते वोढुं, कीर्तिराजसुखाऽऽसनम् । उच्छिष्टं भोज्यते स्थालक्षालनं कार्यते सदा ॥३८॥ तत्राऽन्यदपि यन्नीचकार्यं स कार्यते भृशम् । तत्करोति विमूढाऽऽत्मा, तत्पुत्रीस्नेहलम्पटः ॥३९।। कीर्तिराजेऽन्यदा हर्षाच्चलिते वनमीक्षितुम् । मानपुञ्जः श्वशुरेण, न्ययोज्यत सुखाऽऽसने ॥४०॥ या तस्य प्राक् प्रिया दासी, कीर्तिराजप्रियाऽभवत् । ढौकिते तेन साऽरुक्षत्तद्वस्त्रप्रावृतं मृदु ॥४१॥ अग्रतो गीयमानेन, गीतेनौजायिताऽऽशया । जगामोद्यानमध्यस्थश्रीजैनभुवनाऽग्रतः ॥४२॥ दासीभिर्दत्तहस्ताऽसावुत्ततार सुखाऽऽसनात् । ददृशे मानपुञ्जेन, ममेयं सा प्रिया खलु ॥४३।। अहो ! पुण्यमहो ! पुण्यं, दासीमात्राऽप्यसौ यतः । अस्मिन्नेव भवे जाता, स्नेहपात्रं नृपप्रिया ॥४४।।
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।